सोमवार, 23 सितंबर 2024

कुन्ती का पाण्डु विरह

कुन्ती का पाण्डु विरह

हा पाण्डो! विगतोऽसि कुत्र नृपते मत्वा विहाय प्रियाम्।
शून्यं मे हृदयं विदीर्णमधुना त्वद्वियोगाग्निना ॥०१॥
  
मात्स्यां च प्रियपुत्रपञ्चकमिदं त्यक्त्वा गतोऽसि प्रभो।
कस्मै वा कथयामि दुःखमखिलं को वा करिष्यत्यलम् ॥ ०२॥
  
स्मृत्वा त्वां नृपशार्दूलं रोदिमि दिवानिशम्।
कथं जीवामि संसारे त्वया विना महीपते॥०३॥
  
पुत्राणां पालनं कृत्वा राज्यभारं वहाम्यहम्।
किन्तु त्वद्विरहे नाथ हृदयं मम दह्यते॥०४॥
  
यदा पश्यामि ते पुत्रान् तदा त्वां स्मरतेऽन्तरम्।
तेषां वीर्यं गुणान् दृष्ट्वा त्वामेव प्रतिबिम्बति ॥०५॥
  
हस्तिनापुरमध्ये हि वसाम्यहमनाथवत्।
त्वया सह गता सर्वा सुखशान्तिः सुखप्रिय॥०६॥
  
धृतराष्ट्रस्य पुत्राश्च द्वेषं कुर्वन्ति निर्दयम्।
रक्षसे त्वं कथं नाथ स्वर्गलोकनिवासकृत् ॥०७॥
  
युधिष्ठिरो महाप्राज्ञो भीमसेनो महाबलः।
अर्जुनश्च महावीरस्त्वत्पुत्रा वर्धमानकाः ॥०८॥
  
नकुलः सहदेवश्च माद्रीपुत्रौ मनोहरौ।
तेषां रक्षणभारोऽयं मयि न्यस्तस्त्वया विभो ॥०९॥
  
कथं पालयितुं शक्ता त्वद्विहीना तवात्मजान्।
अहं दुर्बलनारी च त्वं तु शक्तो महाबल ॥१०॥
   
स्मरामि तव संवासं प्रेमपूर्णं मनोहरम्।
यदा त्वं मां परिष्वज्य कथयेथाः प्रियं वचः॥११॥
   
वनवासे गते काले त्वया सह सुखप्रदे।
अद्य तत्सर्वमप्यस्ति स्वप्नवत्प्रतिभाति मे ॥१२॥
   
चिन्तयामि सदा त्वां हि निशि वासरमेव च।
त्वद्गुणान् स्मृत्य रोदामि निःश्वसामि मुहुर्मुहुः ॥ १३॥
   
हे नाथ! श्रृणु मे वाणीं यदि श्रोतुं क्षमोऽसि चेत्।
आगच्छ पुनरेवेह पुत्रैः सह वसाम्यहम् ॥१४॥
   
जानामि नैव शक्यं तत् पुनरागमनं तव।
किन्तु प्रार्थये देवान् त्वत्कृते सततं विभो ॥१५॥
   
यावज्जीवं स्मरिष्यामि त्वां च तव गुणान् शुभान्।
त्वद्भक्तिः पावयेन्मां हि सर्वपापेभ्य एव च ॥१६॥
   
पुत्राणां पालनं कृत्वा राजधर्मं च पालयन्।
प्रतीक्षे तं दिनं यत्र पुनर्मिलनमावयोः ॥१७॥
   
यदा यदा च दुःखं मे भवेदतिविषादकृत्।
तदा तदा स्मरिष्यामि त्वां च तव सुभाषितम् ॥१८॥
   
त्वया दत्तं हि संदेशं पालयिष्यामि यत्नतः।
पुत्राणां रक्षणं कृत्वा धर्ममार्गे नयाम्यहम् ॥१९॥
   
यद्यपि त्वं गतो दूरं न दृश्योऽसि ममाधुना।
तथापि त्वं सदा तिष्ठ मम चित्ते हृदि स्थितः ॥२०॥
   
आशास्ते मे मनो नाथ पुनर्दर्शनमावयोः।
यत्र नास्ति वियोगोऽयं न च दुःखं कदाचन ॥२१॥
   
तावत्कालं प्रतीक्षेऽहं धैर्यं धृत्वा सुदुष्करम्।
पुत्रार्थे जीवनं कृत्वा त्वत्स्मृतिं हृदि धारयन् ॥२२॥
   
हे पाण्डो! महाराज त्वं धर्मस्य प्रवर्तकः।
तव मार्गानुसारेण चरिष्यामि सदैव हि ॥२३॥
   
यद्यपि त्वं गतः स्वर्गं त्यक्त्वा मां च सुतान् प्रियान्।
तथापि त्वत्प्रभावेण जीवामः सर्व एव हि ॥२४॥
   
त्वद्वियोगानलेनाहं दह्यमाना दिवानिशम्।
तथापि धैर्यमालम्ब्य कर्तव्यं पालयाम्यहम् ॥२५॥
   
यावज्जीवं स्मरिष्यामि त्वां च तव सुचेष्टितम्।
तव प्रेम च मे शक्तिर्भविष्यति न संशयः ॥२६॥
   
अन्ते च यदा यास्ये त्वत्समीपं विहाय भूम्।
तदा संपूर्णहृष्टा स्यां लब्ध्वा त्वां पुनरेव हि ॥२७॥
   
इदानीं तु प्रतीक्षेऽहं तं दिवसमहर्निशम्।
यदा द्रक्ष्यामि भूयस्त्वां प्रेमपूर्णेन चक्षुषा ॥२८॥
   
हे पाण्डो! मम जीवेश त्वद्वियोगे व्यथाकुला।
तथापि पालयिष्यामि त्वया दत्तं सुसंदेशम् ॥२९॥
   
अन्ते वदामि हे नाथ! त्वयि मे परमा रतिः।
यावज्जीवं स्मरिष्यामि त्वां च तव सुभाषितम्॥३०॥

अहो! कालस्य गतिरियं यन्मया सोढुमक्षमा
तथापि धैर्यमालम्ब्य जीवामि त्वत्कृते विभो॥३१॥

पुत्राणां भाग्यमालोक्य तव कीर्तिं च शाश्वतीम्।
मनः शान्तिमवाप्नोति त्वद्गुणस्मरणेन च॥३२॥

यद्यपि देहतस्त्वं मे दूरे तिष्ठसि पार्थिव।
आत्मना तु सदा मे त्वं समीपे चैव वर्तसे ॥३३॥
   
जीवनस्यान्तिमे काले यदा त्यक्ष्याम्यहं तनुम्।
तदा त्वामेव ध्यायन्ती गमिष्यामि परां गतिम् ॥३४॥
   
इति मे विरहालापः पाण्डोः प्रियतमस्य च।
श्रुत्वा जनाः स्मरन्त्वेनं प्रेम्णः प्रतीकमुत्तमम् ॥३५॥


श्रावणे मासि वर्षायां द्वादश्यां तिथिसंज्ञके।

आचार्यप्रतापेन विरहव्याकुलात्मना॥ ३६॥


कुन्त्याः पाण्डोश्च विरहः काव्येनानेन वर्णितः।

पठतां श्रृण्वतां चैव करोतु शुभमङ्गलम्

॥३७॥

आचार्य प्रताप

#संस्कृतभाषा #acharyapratap #acharypratap #आचार्य_प्रताप #मेरीबगियाकेफूल #meribagiyakephool #sanskritlanguage #Sanskrit

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

आपकी टिप्पणी से आपकी पसंद के अनुसार सामग्री प्रस्तुत करने में हमें सहयता मिलेगी। टिप्पणी में रचना के कथ्य, भाषा ,टंकण पर भी विचार व्यक्त कर सकते हैं